________________
-प्रदोप
[ ६०१]
।
दन्तधावन कार्य कर्त्तव्यं तेन तत्क्षणे । च, नव्य मन्दिर निर्माणजल्पनं कर्णगोचरे ॥ ११८ ॥ समायाति तदा चैव कर्त्तव्यं दन्तधावनम् । तादृशी प्रतिज्ञा तेन कृता गुरुसमीपके ॥ ११६ ॥ चतुर्दिक्षु च सर्वत्र, मन्दिराणां विधापनम् । भव्य मूर्त्तिप्रतिष्ठानां विधानं शुभयोगतः ॥ १२०॥ सुयोग्यशिष्ययोगेन, आर्यसुहस्तिना खलु । भारते जैन साम्राज्यं, कारितं धर्मभावतः ॥१२१॥ प्रभुवीरात्समारभ्य, आर्यसुहस्तिकावधि | निर्ग्रन्थगच्छनाम्नैव, प्रसिद्ध वीरशासनम् ॥ १२२॥ वीरनिर्वाणकालाच्च, द्वितीयस्मिन् शताब्दि के । उत्तरार्धे च दुष्कालो, जातो द्वादशवार्षिकः ॥ १२३ साधुसंख्यासु न्यूनत्वं श्रुतज्ञानस्य ह्रासता । श्रुतसाधोश्च रक्षायै, सम्प्रतेर्यत्नको महान् ॥ १२४ जैनधर्मस्य रक्षायां, सर्वं च रक्षितं भवेत् । स्थितिद्वयस्य चोन्नत्यै, निर्ग्रन्थसाधुना तदा ॥१२५ विभिन्नगच्छशाखानां, कुलानां व्यवस्थांकृता । एवं रीत्या च कर्त्तव्ये, सर्व व्यवस्थितं भवेत् ॥ १२६