________________
[६७०]
योगसाधुविहारयोग्यानि, क्षेत्राणि कारितानि च ।। वस्त्रपात्रान्नपानादि शुद्ध देयं च साधुभ्यः ॥१०६ इत्येवं घोषितं तेन, ज्ञापितं देशनादिना । प्रतिपुरं प्रतिग्राम, कृत्रिमसाधुद्वारतः ॥११०॥ यस्य गृहेषु यद्वस्तु, विद्यते शुद्धमानकम् । तद्वस्तु साधुसामीप्ये, ढौकनं शुद्धभावतः ॥१११॥ यदि साधुश्च गृह्णाति, तदा देयं च तत्तथा । मूल्यं तस्य महाराजा, तस्मै दास्यति कोशतः ११२ एवंरीत्या च म्लेच्छेषु, विहारः सुलभः कृतः। साधुभिस्तत्र गत्वैव, प्रचारो बहुधा कृतः ॥११३॥ आर्यदेशेषु साधनां, प्रचारे स्वल्पकष्टता। अन्यत्र कष्टबाहुल्य, तदपि सुलभीकृतम् ॥११४॥ अनेककोटिसंख्याकाः, जैनधर्मानुयायिनः । जेनाश्च कारितास्तेन, श्रद्धारत्नसमर्पणात् ॥११५॥ धन्याश्च गुरवस्ते वै, धन्याः सम्प्रतिभूमिपाः । शासनरागता तादृग, येषां स्वान्ते विराजते ११६ तादृशगुरुशिष्याणां, समायोगस्तु दुर्लभः । सुहस्तिना कृतं यादृक् तादृशं च करोति कः ॥११७