________________
-प्रदीप
[६६६] साधुविहारशून्येन, भारतं धर्महीनकम् । अतः सर्वत्र गन्तव्यं, साधुना भारते खलू ॥१०१ किं चानार्यप्रदेशेषु, साधुविहारहेतवे । कृत्रिमसाधवस्तत्र, प्रेष्यन्ते च मया तथा ॥१०२॥ व्यवस्थां ईदृशीं कृत्वा, सर्वत्र दमिनां तथा । विहारः कारितस्तेन, प्रचारो विहितो बहु ॥१०॥ स्वल्पकालेन जैनानां, सामाज्यं तेन निर्मितम् । धर्मप्रचारबाहुल्यं, सुहस्तिगुरुयोगतः ॥१०४॥ सपादलक्षसंख्याकाः, प्रसादास्तेन कारिताः । जिनानां ते च विज्ञेयाः जैनधर्मस्य भारते ॥१०॥ सपादकोटिसंख्याकाः, प्रतिमाः कारिताः शुभाः। जीर्णानि मन्दिराण्येव, उद्धृतानि विशेषतः १०६ षट्त्रिंशत्सहस्राणि, उद्धृतानि तथा खलु । एकलक्षाणि धातूनां, प्रतिमास्तेन कारिताः ॥१०७ शतशो दानशालानामुद्घाटनं कृतं तदा। धर्मप्रचारकार्याय, म्लेच्छानां मोचितः करः ॥१०८
१ जैनसाधूनाम् ।