SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ योग योग्यजीवं परिज्ञाय, गुरुणा दीक्षितः किल । राजसभा समागत्य, धर्मलाभं प्रदत्तवान् ॥३८॥ शोचितो राजप्रश्नश्च, लोचितमुत्तरं कृतम् । तं श्रुत्वा मानसे स्वीये, राज्ञा च परिचिन्तितम्॥३६ अहो ! चैतस्य दाढ्यं तदहो मानसनिश्चयः। अहो ! वैराग्यपुष्टित्वं, कामरागस्य मन्दिरे ॥४०॥ इत्येवं स्तुतिश्लाघां च, मुहुर्मुहुः करोत्यसौ । तत्काले राजहाच्च, निर्गतः शान्तसेवधिः ॥४१॥ कोशायाः प्रतिबोधाय, चातुर्मासाय याचनाम् । करोति गुरुसाम्मुख्ये, स्थूलभद्रो महामुनिः ॥४२ योग्यस्य योग्यतां ज्ञात्वा, गुरुणा स्वीकृतिः कृता। गतः कोशागृहे साधुः, चित्रशालां च याचते ॥४३ पूर्वप्रेमवशेनैव, शाला समर्पिता तदा। षड्सभोज्यसामग्री, वर्षाकालो महांस्तथा ॥४४ मदनागारवासेन, मदनोऽपि विनाशितः। कोशाशृङ्गारसामग्री, दृष्ट्वापि नैव मोहितः ॥४५ वैराग्यमयवाक्येन, अध्यात्मदेशनादिना । प्रतिबोध्य च तां कोशामणुव्रतं प्रदत्तवान् ॥४६॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy