________________
[६५४ ]
योगतादृग्महत्फलं श्रुत्वा, को योगे न प्रवर्तते। यो न प्रवर्तते तत्र, तस्य जन्म निरर्थकः ॥१४१॥ ते धन्याः पुरुषा ज्ञेयाः, ये च योगं समाश्रिताः। आत्मानं निर्मलं कृत्वा, ये च मोक्षं गताः खलु १४२ योगशब्दश्च येषां नो, कर्णगोचरतां गतः। जन्मनिरर्थकस्तेषां, पशुप्रायाश्च सर्वदा ॥१४॥ महापातकिनो ये स्युः, परस्त्रीलम्पटाः सदा । लुटाका मद्यमांसादिसेविनो दुर्भगा जनाः ॥१४४॥ हिंसादिष्वनुरक्ता ये सप्तव्यसनसेविनः । तेऽपि योगं समाराध्य, प्राप्ताः शिववधूश्रियम् १४५॥ चिरकालार्जितान्येव, येन पापानि सर्वदा । ते नाशयन्ति योगेन, घनवच्चण्डवाततः ॥१४६॥ अप्राप्तपूर्वधर्माणः, मरुदेव्यादिका खलु । तेऽपि योगप्रभावेण, भवन्ति शिवशालिनः ॥१४७॥ भरतादिमहाराजाः, षट्खंडभरताधिपाः । महायुद्धादिकर्तारः, महारम्भत्वसेविनः ॥१४॥ तेऽपि राज्यश्रियं त्यक्त्वा योगधर्मसमाश्रयात् । रत्नत्रयं च सम्प्राप्य, आसेदुः केवलश्रियम् ॥१४६॥