SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ -प्रदीप । ६५.] मूलस्य ज्वालनेनैव, अन्येषां कीयती स्थितिः। मूलनाशेन नश्यन्ति, कर्माण्यन्यानि निश्चितम् १३२ तृतीयध्यानरूपे च, योगनिरोधकालीने । सर्वयोगनिरोधेन, सर्वसंवरता भवेत् ॥१३३॥ निर्जराऽपि भवेदेव, तत एव सुनिश्चिता। चतुर्थध्यानरूपे च समाधौ पूर्णनिर्जरा ॥१३४॥ सर्वेषां कर्मणां चैव, सर्वथा निर्जरा खलु । चतुर्थध्यानपर्यन्ते, जायते नात्र संशयः ॥१३॥ मोक्षः स एव विज्ञेयः, ततश्चोर्ध्वगतिर्भवेत् । धर्माधर्मास्तिकायौ च, यत्र स तत्र गच्छति ॥१३६॥ ततश्चोपरि नो याति, धर्मास्त्यादिवियोगतः। कर्मणां सर्वथाऽभावे, नाधो याति ततः खलु १३७॥ लोकाग्रे च स्थितिस्तस्य, सिद्धस्य परमात्मनः । साद्यनन्तत्वपर्यन्तं, सुखाऽनन्त्यं भुनक्ति सः १३८॥ सम्पूर्णयोगतत्त्वस्य, सेवने फलपूर्णता। सातिचारे च न्यूनत्वं, फलस्य परिकीर्तितम् १३६॥ अतोऽप्रमत्तभावेन, अतिचारविहीनता। सर्वदा सेवनीयोऽयं, योगश्च योगिना सदा १४० १ धर्माऽस्तिकायादि
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy