SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ [६५२] योगतस्याश्च निग्रहे ज्ञयः सम्बन्धो ज्ञानिना सदा । आत्मनि तु न कश्चिच, सम्बन्धः परिज्ञायताम् १२३ पुद्गलरूपता तासु, देहः पुद्गलरूपकः । अतो द्वयोहि सम्बन्धः, साक्षान्नैव निगद्यते ॥१२४ भावतः प्राणयामश्च, गुणप्रवेशनादिकः । सम्बन्धश्चात्मनस्तस्य, साक्षादेव प्ररूप्यते ॥१२॥ आत्मशुद्धिप्रकारे च, हेतुता तस्य युज्यते। अतोऽपि सैव मन्तव्या, न तु निरर्थकः खलु ॥१२६ इन्द्रियसंयमश्चैव, प्रत्याहारे निगद्यते । अतो हि संवरः सोऽपि, आत्मविशुद्धिहेतुकः ॥१२७ मनसः संयमश्चैव, धारणासु निगद्यते । सोऽपि संवररूपः स्यादात्मविशुद्धिहेतुकः ॥१२८॥ तपो भेदस्वरूपाच, ध्यानात्तु निर्जरा मता। संवरोऽपि ततश्चैव, कथितो ध्यानशालिना ॥१२६ यावत्पर्यन्तध्यानाग्निः, आत्मनि ज्वलितो भवेत् । तावत्कालीनपर्यन्तं, कर्मणां निर्जरा मता ॥१३०॥ कर्मणो मूलरूपस्य, रागद्वेषस्य शाटनम् । तत्कार्य चैव ध्यानाग्निः, वितनोत्यतिशीघ्रकम् ॥१३॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy