SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ प्रदीप [६५१] आत्मचिन्तनरूपस्य, ध्यानस्य परिशीलनम् । सर्वकार्य परित्यज्य, ध्यानमेव समाश्रय ॥११४॥ आवश्यकीयनियुक्तौ, कायोत्सर्गकनामके । अध्ययने च साधूनां, ध्यानता प्रतिपादिता ॥११॥ येन योगेन शुद्धस्य, सम्बन्धश्चात्मनो भवेत् । योगः स एव मन्तव्यः, साक्षात् योगत्ववेदिना ११६ यमनियमनामाख्यौ, योगौ संवररूपकौ । संवरः कर्मरोधाख्यः, अतश्चात्मनि युज्यते ॥११७ आसनस्यैव सम्बन्धः, आत्मनि चैव नो भवेत् । आसनं विग्रहस्यैव, योगस्तत्र कथं भवेत् ॥११८॥ दृढभावः शरीरस्य, विनासनं न युज्यते । दृढशरीरसम्बन्धः, ध्यानेषु चोपयुज्यते ॥११६।। ध्यानं तु निर्जरारूपं, निर्जरा कर्मणो भवेत् । आत्मन: शुद्धिहेतुत्वं, परम्परा निगद्यते ॥१२०॥ मन्तव्यमासनं चैव, अतएव हि योगिना। प्राणायामस्तु योगाङ्ग, कया रीत्या प्ररूप्यते १२१ द्रव्यतः प्राणयामस्य, सम्बन्धो नैव चात्मनः । श्वासनिष्कासनादीनां क्रियाणां च प्रधानता ॥१२२
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy