________________
-प्रदाप
[६४६] एतेषां रक्षणेनैव, संवरो रक्षितो भवेत् । यमाश्च नियमाश्चैव, आसनं प्राणयामकम् ॥१७॥ प्रत्याहारश्च सर्व तत्प्रोक्तं योगांगरूपकम् । संवरहेतुता तत्र, दर्शिता जैनशासने ॥१८॥ धारणाध्यानतारूपे, समाधिनिर्जरा खलु । संवरनिर्जरातत्त्वे मोक्षकारणरूपके ॥६॥ जैनदर्शनशास्त्रेषु, योगस्य पालनं परम् । अवश्यमेव कर्तव्यं, इत्याज्ञापारमेश्वरी ॥१०॥ मुमुक्षूणां च साधूनां आत्मनश्चिन्तनं विना। सम्मतिश्चान्य कार्यस्य, दर्शिता नैव ज्ञायताम् १०१ कदाचित्कार्यप्रासङ्ग, यदि कार्य तु चापतेत् । तदा निवृत्तिपुष्टित्त्वसाधिका प्रवृत्तिं भजेत् ॥१०२॥ आश्रवः सर्वथा हेयः, उपादेयश्च संवरः । तदर्थं सर्वथा यत्नं, कुर्वन्ति जैनसाधवः ॥१०॥ निवृत्तिप्रधानस्य, प्रवृत्तश्चाभिधानकम् । प्रवचनाष्टमातृत्वं, गदितं जैनशासने ॥१०४॥ साधुजीवनप्राधान्या, दिनचर्या निगद्यते । तृतीययामकं त्यक्त्वा, अन्यत्रियामकालिके ॥१०॥