SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ [६४.] योगसावद्ययोगत्यागेन, विरतिः संवरो भवेत् । पापस्थानकहेतूनां, नाशस्तेनैव जायते ॥८॥ कर्मागमनिरोधे च, आश्रवद्वाररोधनम् । संवरो हेतुताभावं, भजेत नात्र संशयः ॥६॥ कषाये सर्वथा नाशे, मोहनीयं विनश्यति । मोहनीयविनाशेन, संसारसागरं तरेत् ॥६॥ क्षायोपशमिके भावे, गृहीते पूर्वयोगतः। पश्चात्क्षायिकरूपेण, तस्य परिणतिर्भवेत् ॥६१॥ मिश्रश्रद्धानभावेन, क्षायिकी च ततो भवेत् । क्षायोपशमिकाज्ज्ञानात्कैवल्यं क्षायिकं ततः ॥१२॥ मिश्रभावादिचारित्राद्यथाख्यातं च क्षायिकम् । चारित्रं परिजायेत, मोक्षप्राप्तिस्ततो भवेत् ॥१३॥ क्षमया क्रोधनाशश्च, मृदुत्वे माननाशता। आर्जवेन च कौटिल्यं, सर्वथा परिनश्यति ॥१४॥ सन्तोषेणैव लोभस्य, विजयः परिजायते । भावनाऽनित्यतादीनां, भावनीया प्रयत्नतः ॥६५॥ शुद्धभावनया चैव, शुद्धो भावः प्रजायते । सर्वे संवररूपास्ते, उपायाः परिदर्शिता ॥६६॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy