________________
-प्रदीप
सम्यक्त्वशुद्धरत्नस्य, फलं मिथ्यात्वसंक्षयः। अनुकम्पाऽपि तस्यैव, ज्ञातव्ये लिंगतां भजेत् ॥६२ आस्तिक्यं च फलं मुख्यं, गीयते जैनशासने । अतः सम्यक्त्तवरत्नं तत्, पालनीयं प्रयत्नतः ॥६॥
पातञ्जलयोगे
सूर्ये संयमकर्तव्ये, भुवनज्ञानता भवेत् । चन्द्रे संयम कार्ये च, ताराव्यूहस्य ज्ञानता ॥६॥ ध्रुवै च संयमे कार्ये, तद्गतिज्ञानता भवेत् । नाभिचक्रे च कर्तव्ये कायव्यूहस्य ज्ञानता ॥६५॥ संयमात्कण्ठकूपे च, क्षुत्पिपासा निवर्तते । संयमात्कूर्मनाड्यां च, स्थैर्य तु प्रणिगद्यते ॥६६॥ मूर्धज्योतिषिकर्तव्ये, सिद्धिदर्शनता भवेत् । प्रातिभादिकसर्व च, जायते योगयोगतः ॥६॥ हृदये संयमे कार्ये, चित्तसंवित्प्रजायते । बन्धकारणशैथिल्यात्, प्रचारपरिवेदनात् ॥१८॥ चित्तस्य परदेहेषु, प्रवेशः परिजायते । उदानवायुजेतव्ये, कम्पकं कण्टकादिषु ॥६६॥