________________
[ ६४६]
योगअसंगोत्क्रान्तिके चैव, जायते वायुतावशे । समानवायुजेतव्येज्वलनं फलरूपकम् ॥७॥ श्रोत्राकाशस्य सम्बन्धः संयमादिव्यश्रोत्रकम् । कायाकाशस्थ सम्बन्धः संयमात्प्रतिपाद्यते ॥७॥ लघुतूलसमापत्तेश्चाकाशगमनं भवेत् । स्थूलस्वरूपसूक्ष्मान्वयार्थतत्त्वस्य संयमात् ॥७२॥ भूतजयस्ततश्चैव, अणिमादिकस्य चोद्भवः । कायसम्पत्तिस्तद्धर्मानभिधातश्च जायते ॥७३॥ प्राबल्यरूपलावण्यं, वज्रसंहननादिकम् । इत्येवं योगवृक्षस्य, फलत्वं प्रतिपादितम् ॥७४॥ पातञ्जलाऽनुसारेण, ईदृशं कथितं फलम् । जैनशास्त्रानुयोगेन, विशिष्टं परिदश्यते ॥७॥ विभूतिद्वि प्रकारा स्याद्वैज्ञानिकी च देहजा । अतीताऽनागते ज्ञाने, जीवानां रुतज्ञानकम् ॥७६॥ पूर्वजातित्वज्ञानं च, जातिस्मरणनामकम् । भुवनज्ञानता चैव, परचित्तस्य ज्ञानकम् ॥७॥ ताराव्यहस्य सज्ज्ञानं, एता ज्ञानविभूतयः । हस्तिवलं च विज्ञेयं, अन्तर्धानं सुयोगजम् ॥८॥