________________
[६४४]
योगयत्सुखं च नरेद्राणां, यत्सुखं चक्रवर्तिनाम् । सन्तोषियोगिनश्चाने, तत्सुखं बिन्दुमात्रकम् ॥५४ तपसा निर्जरा चैव, संवरोऽपि प्रजायते । आश्रवस्य निरोधेन, सकामा निर्जरा मता ॥५५॥ कायेन्द्रियस्य संसिद्धि, अशुद्धिक्षयतो भवेत् । तपसः परिजायेत मन्तव्यं ज्ञानिना सदा ॥५६॥ स्वाध्यायः पञ्चधा कार्य:, वाचनापृच्छनादिभिः । सकामानिर्जरा चैषा, यमिनां परिजायते ॥५७॥ आचाराङ्गादिग्रन्थानां, अध्यात्मपरिपोषिणाम् । तेषामेवेह स्वाध्यायः, अन्येषां न कदाचन ॥५८॥ ईश्वरप्रणिधानेन, समाधिसिद्धिता भवेत् । ईश्वरप्रणिधानं च, अतः कार्य विवेकिना ॥५६॥ मैत्र्यादिष्वात्मशक्तीनां, प्रादुर्भावः प्रजायते। समताभावरूपं तत् आत्मबलं प्रकाशते ॥६०॥ . अनित्यादिकभावेष , संवेगादि प्रजायते । निर्वेदता ततश्चैव, शुद्धरूपा प्रकाशते ॥३१॥
१ भावनासु