________________
-प्रदीप
[६४३ ] जितान्यक्षाणि मोक्षाय, संसारायेतराणि वै । तादृशमन्तरं ज्ञात्वा, यद्य क्तं तत्समाचर ॥४॥ तपस्विनो मनः शुद्धिपरिहीनस्य सर्वथा। ध्यानं खलु मुधाचक्षुर्विकलस्येव दर्पणम् ॥४६॥ तदवश्यं मनःशुद्धिः, कर्तव्या सिद्धिमिच्छता । ततो यमादिसंप्राप्तिः, किमन्यैः कायदण्डनैः ॥४७॥ अस्ततन्दरतः पुभिः, निर्वाणपदकांक्षिभिः । विधातव्यः समत्वेन, रागद्वषद्विषत्क्षयः ॥४८॥ मनःशुद्धयै च कर्त्तव्यः, रागद्वेषविनिर्जयः । कालुष्यं येन हित्वात्मा, स्वस्वरूपेऽवतिष्ठते ॥४६॥ अमन्दानन्दप्राप्तव्ये, साम्यवारिणि मज्जताम् । जायते सहसा सां, रागद्वेषविनाशता ॥५०॥ शौचात्स्वाङ्गजुगुप्सा च, परसंसर्गशून्यता। जायते चेति वक्तव्यं, शुद्धिश्च द्विप्रकारतः ॥५१॥ द्रव्यशौचाच्छरीरस्य, क्षणं शुद्धिः प्रजायते । भावशोचेन जीवानां, कर्ममलो विशुध्यति ॥५२॥ अनुत्तममुखानां च, संतोषात् लाभसम्भवेत् । अतः संतोषता श्रेष्ठा, पालनीया च सर्वथा ॥५३॥