________________
[६४२]
योगब्रह्मचर्यप्रतिष्ठाने, ब्रह्मचारिमहात्मनः । सम्पूर्णशक्तिलाभश्च, जायते ब्रह्मयोगतः ॥३६॥ दीर्घायुषः सुसंस्थानाः, दृढसंहनना नराः। तेजस्विनो महावीर्याः, भवेयुब्रह्मचर्यतः ॥३७॥ प्राणाधारं चरित्रस्य, आत्मशुद्ध येककारणम् । पालको ब्रह्मचर्यस्य, पूजितैरपि पूज्यते ॥३८॥ उभयलोकसंसिद्धिः, देवेन्द्रपरिपूज्यता । सम्पूर्णसुखताऽवाप्तिः, जायते ब्रह्मचर्यतः ॥३६॥ ब्रह्मचर्येण वीर्याणां, लाभस्तु परिजायते । सद्बुध्याश्च ततः प्रातिः, रत्नत्रयं ततो मतम् ॥४० पूर्णरत्नत्रयाणां च ज्ञानेन पालनं भवेत् । ततः सर्वोत्तमं ध्यानं, ततश्च केवलं मतम् ॥४१॥ जन्मकथंत्वसम्बोधः, अपरिगृहस्थैर्यके। तृष्णा पिशाचिनो दूरे, गच्छति व्रतधारिणाम् ॥४२ शुद्धात्मगृहप्रावेशे, अन्तरायं करोति सा। तद्भावे च तस्यैव, अभावः परिजायते ॥४॥ समीपे निधयस्तस्य, कामगव्य-नु-गामिनी । अमरा दासतां यान्ति, सन्तोषो यत्र तिष्ठति ॥४४