________________
-प्रदीप सर्वासां च क्रियाणां च सत्यवादिमहात्मभिः । सर्वफलाश्रयत्वं च, प्राप्यते व्रतपालनात् ॥२७॥ अहिंसायाः फलं यच्च, प्रोक्तं श्रीजैनशासने । सत्यस्यापि फलं तादृक्, प्राप्यते नात्र संशयः ॥२८ सत्यासत्ये च मिश्रा च, चतुर्थी व्यवहारजा । भाषाणां चतसृणां च, आधान्तिमे च भाषके ॥२६॥ नवकोटित्वरूपेण, अतिचारविहीनकम् । सत्यं च पालितं येन, फलं तस्यैव ज्ञायताम् ॥३०॥ भाषणीये सतां चैव, द्वे भाषे सर्वसम्मते । अन्ये द्वये परित्याज्ये, इत्याज्ञा पारमेश्वरी ॥३१॥ गुणानुरागतां देवाः कुर्वन्ति च नराधिपाः । उद्वहन्ति च तस्याज्ञां, अग्निर्भजति शीतताम् ॥३२॥ अस्तेयव्रतकत्र्तव्ये, अचौर्य च फलं महत् । सर्वरत्नोपस्थानं च, तत्समीपे च सर्वदा ॥३३॥ परस्वहरणे येषां, नियमः शुद्धभाषिणाम् । समायान्ति श्रियस्तेषां, स्वयमेव स्वयंवराः ॥३४॥ विघ्नानि दूरतो यान्ति, साधुवादः प्रजायते । स्वर्गसौख्यानि ढौकन्ते, अस्तेयव्रतधारिणाम् ॥३५॥
४१