________________
[६४०]
योगयोगाङ्गानां च सर्वेषां, मूलभूता निगद्यते । मूलस्य च विनाशेन, शाखादिकं न तिष्ठति ॥१८ दयानदीमहातीरे, सर्वे धर्मास्तृणांकुरः । तस्यां शोषमुपेताया, कियन्नन्दन्ति ते चिरम् १६ यदि मोक्षसुखानां च, आस्वादेच्छा प्रजायते। तदा कण्ठगतैः प्राणः, अहिंसा नैव मुच्यताम् २० सर्वदुःखविनाशाय, सर्वसुखस्य लब्धये । अहिंसा शुद्धधर्माय, सर्वथाऽचोद्यमीयताम् ॥२१॥ ते धन्याः पुरुषा ज्ञेयाः, सर्वश्लाघ्याश्च ते मताः । सर्वेषां वन्दनीयास्ते सर्वथाऽहिंसकाश्च ये ॥२२॥ सतां च सर्वजीवानां, अनुकूलं वदन्ति ये । "तेषां प्राणविघातादिप्रतिकूलं च नो कदा ॥२३॥ तत्सत्यं गीयते सर्वैः, अन्यत्सर्वमसत्यकम् । व्युत्पत्तिप्रविषोधेन, एतत्सत्यं निरुपितम् ॥२४॥ प्रवृत्तिः सत्यशब्दस्य, परपीडाकरं वचः । प्रमत्तयोगयोगेन, वक्तव्यं न कदाचन ॥२५॥ यद्भूतहितमत्यन्तं, असत्यप्रतिपादकम् । अन्यत्सर्वं च मन्तव्यं, तत्सत्यमिति गीयते २६