________________
- प्रदोप
[ ६३६ ]
1
अरण्ये देशनां श्रोतु, तेषां च क्रूरप्राणिनः । समागच्छन्ति भावेन, तत्रापि कारणं च तत् ॥६॥ आगत्य प्रेमभावेन, तिष्ठन्ति सर्वदा खलु । विस्मृत्य वैरभावं च, भूषयन्ति च पर्षदम् ॥१०॥ अतः पूर्णयमानां च, पालने किमु नो भवेत् । मोक्षसुखस्य सम्प्राप्तिः, अन्यस्य तर्हि का कथा ११ देवदानवगन्धर्वा यक्षराक्षसकिन्नराः ।
सेवाभावं च ते सर्वे, दर्शयन्ति विनम्रतः ॥१२॥ देवा अपि नमस्यन्ति देवेन्द्राश्चक्रवर्त्तिनः । अन्येषां प्राणिनां तर्हि किं कथ्यते ततः परम् ॥१३ सर्वथा शुद्धरूपेण, नवकोट्यनुसारतः ।
पालयन्ति च येऽहिंसां, तदाग्रे किमु वर्ण्यते ॥ १४ विशद्धसंयमं चैव, अतिचारादिशुन्यतः । सर्वथा पालयन्ति ये तेषां स्फुटा विभूतयः ॥१५॥ सर्वेषां संयमानां च मध्ये सा मुख्यरूपिका । अहिंसा कथिता ज्ञेया, अन्ये च वृत्तिरूपतः ॥ १६॥ अहिंसा परिपूर्णायां, सर्व पूर्ण निगद्यते । तस्याश्च न्यूनतायां हि, सर्व न्यूनं प्ररुध्यते ॥ १७॥