________________
mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
-प्रदीप
[६३५] तथा ध्यानाग्निना दग्धे, कर्मणि न भवाङ्कुरः। तथैव घातिनाशेन, ज्ञानावरणनाशता ॥३१०॥ अतः सर्वज्ञता स्वस्मिन्नागता न विनश्यति । साद्यनन्तत्वपर्यन्तं, सा च तिष्ठति सर्वदा ॥३१॥ येन सर्वज्ञता नाशः, स्वीकृतोऽज्ञानिभिर्जनैः । तन्मोक्षो नैव मन्तव्यः, यत्र नैव प्रकाशता ॥३१२ अतोऽपि दृढभावेन, मोक्षसर्वज्ञता सदा । मन्तव्या स्थिरचित्तेन, निष्कास्यतामज्ञानता ३१३॥ तादृशी ज्ञानता चैव, स्वयमेव प्रजायते । तादृशज्ञानमन्तव्ये, कूटस्थता च नात्मनि ॥३१४ जैनशास्त्रानुसारेण प्रकृतिषु न केवलम् । उत्पादव्ययताध्रौव्ययुक्तं तत्त्वं समं मतम् ॥३१॥ जडचेतनतत्त्वेषु, सर्वत्र लक्षणं सदा । अतो युक्तिं विभाव्यैव, कूटस्थनित्यतां त्यज ३१६ चतुर्थपादसूत्रेषु, द्वादशसु प्रकाशितम् । लिख्यते तस्य भावार्थः, स्पष्टरूपेण कश्चन ३१७॥ प्रत्येकवस्तुधर्माणां, तिस्रोऽवस्था भवन्ति वै । भूतभावित्वसत्कालाः, तत्कृत् तत्र विभिन्नता ॥