________________
योग
our-MAN
[६३६] भूतभाविदशायां च, प्रत्येक स्वस्वरूपके । धर्मेण सह सम्बन्धः, अस्तीति प्रतिपादितः ॥३१६॥ तादृशवस्तुतत्त्वानां, जैनप्रक्रियया सह । संयोजने च सद्भ तं, स्वरूपं परिसिध्यति ॥३२०॥ द्रव्यपर्यायरूपेण, वस्तुतत्त्वे दृढीकृते। पूर्वोक्तकालभेदस्य, व्यवस्था घटते सदा ॥३२१॥ द्रव्यपर्यायरूपं हि, सर्वं जगद्विलोक्यते । स्वरूपान्तरेण चात्रैव, स्याद्वादोऽयं निषेवितः ३२२॥ स्याद्वादे स्वीकृते चैव, व्यवहारस्तु सर्वदा । सर्वप्रकारसंसिद्धः, मन्तव्यो नात्र संशयः ॥३२॥ स्याद्वादाख्यनरेन्द्रस्य, यत्राज्ञा परिवर्तते । तत्रैव वस्तुतत्त्वत्वं, नान्यत्र तद्विलोक्यते ॥३२४॥ प्रकृतितत्त्वमन्तव्ये, स्याद्वादः स्वीकृतो दृढः । सप्तभंगीप्रदीपे च, सर्वमेतद्विचारितम् ॥३२॥ यत्र वैकान्तनित्यत्वं, तादृक् सत्कार्यवादता। तत्र सद्वस्तुतत्वानामाशा खपुष्पसादृशी ॥३२६॥ पातञ्जलीय योगस्य, कृता विचारणा मया । कृपा च गुरुदेवानां, मुख्यकारणतां भजेत् ॥३२७॥