________________
- प्रदीप
[ ६३३ ]
यस्य सर्वज्ञता जाता, तस्य मुक्तेरनन्तरम् । स्वान्तदेह दिनाशे च सर्वज्ञत्वं विनश्यति ॥ २६२॥ सार्वश्यमानसं कार्यमात्मनो नैव विद्यते । कूटस्थो निर्विकारश्च, आत्मा चेतनरूपकः ॥२६३॥ एतत्रितय वस्तूनां, जैनशास्त्रानुसारतः । विचारः परिकर्त्तव्यः, वस्तुतत्व प्रकाशने ॥ २६४ ॥ सुखदुःखादिभोगस्तु, संसारिकस्य चात्मनः । वास्तविक विकारः स्यात्मनसो नैव युज्यते ॥ २६५॥ अतो मुक्तित्वशब्देन, संसारकालिकस्य वै । भोगस्यैव विनाशो हि, ज्ञातव्यः सर्वसज्जनैः २६६ नत्वारोपित भोगस्य चाभावो मुक्तिसम्मतः । इत्येवं परिमन्तव्यं, शुद्धवस्तुगवेषकैः ॥ २६७ ॥ विवेकख्यातिशब्देन, सम्यग्दर्शनवस्तुनः । कर्म क्लेशादिकानां च तत्राऽभावे च मोक्षता २६८|| मूक्तेः पूर्वं च क्लेशानां, निवृत्तिः सर्वसम्मता । क्लेश निवृत्तिसद्भावे, सर्वज्ञत्वं दृढं भवेत् ॥ २६६ मोहनिवृत्तिसद्भावे, क्लेशाऽभावः प्रजायते । सर्वथा क्लेशराहित्ये, घातीनां च विनाशता ३००॥