________________
[६३२]
योगहठयोगस्तु योगो न, किन्तु लोकप्रतारणा । तद्वारा स्वात्मवश्चत्वं सद्गतिस्तु कुतो भवेत् २८३ बलात्कारीययोगः सः, मुग्धरञ्जनकारणम् । ज्ञानिनां तत्र हास्यं स्यात्संसारपरिवर्धकः ॥२८४॥ हठयोगस्वरूपो यः प्राणायामस्तु केवलः । येनैव स्वीकृतस्तेन, मुक्तिमार्गो निषेधितः ॥२८॥ पश्चाधिके च पश्चाशत्सूत्रे च भाष्यकर्तृणा । सांख्यधर्मानुसारेण, योगसिद्धान्तवर्णितः ॥२८॥ मुख्यानि तत्र वस्तूनि, दर्शितानि च तत्र वै । भोगज्ञानसुखाद्य च, प्रकृतेश्च विकारजम् ॥२८७ कूटस्थनित्यता ज्ञेया, पुरुषे सर्वदा किल । अतो न बद्धता तत्र, मुक्तता नैव दर्शिता ॥२८८ पुरुषे मुक्तताज्ञानं, आरोपितं तु मन्यते । जडचेतनभिन्नत्वज्ञानं मुक्त रुपायता ॥२८॥ भेदविज्ञानसद्भावेऽविद्यादिक्लेशकर्मणाम् । विपाका-नाम-भावश्च, स एव मुक्तिरूपकः ॥२६॥ मुक्तेः पूर्व च सार्वत्वं, कस्यचिच्च प्रजायते । कस्यचिन्नैव विज्ञेयं, मान्यता चेति सर्वथा ॥२६॥