SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ -प्रदोप [६३१] शुभाशुभत्वशब्दाद्यः, सम्बन्धे हृषिकस्य च । सत्यपि तत्त्वज्ञानादिबलेन भवतो न यौ ॥२७४॥ कदापि रागद्वेषौ च येन केन प्रकारतः। इन्द्रियाणां च सामान्या, परमवश्यता खलु ॥२७५ परमवश्यतायाश्च, उपायो ज्ञानमेव च । न हि चित्तनिरोधो वै, केवलं परिमन्यते ॥२७६॥ अध्यात्मभावनाद्वारा, जाता या समभावना । तत्सहितं च यज्ज्ञानं, राजयोगः स कथ्यते ॥२७७ चित्तस्य विजये चैव, इन्द्रियाणां जये तथा । द्वयोरुपायता मुख्या, ज्ञानरूपा निगद्यते ॥२७॥ हठयोगादिरूपस्तु, प्राणायामो न मन्यते। विकाशमार्गरोधे तु, विघ्नत्वजनको भवेत् ॥२७॥ येनैव हठयोगस्य, प्राधान्यं स्वीकृतं दृढम् । प्रत्याहारादिकं तेन, कदापि नेव लभ्यते ॥२८॥ प्रत्याहारादियोगाङ्ग, प्रधान मुक्तिकारणम् । सर्वथा चेन्द्रियाणां च प्रत्याहारेषु वश्यता ॥२८१॥ धारणाचित्तवश्यत्वं, ध्यानेनात्मविशुद्धता। तादृक् शुद्धक्रमं त्यक्त्वा, को हठयोगमाश्रयेत् ॥२८२
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy