________________
योग
[ ६३० ]
शुद्ध भोजनपानेन, मृत्तिकाजलवस्तुना ॥२६५॥ शरीरस्य च शुद्धयर्थं कृतं तद्बाह्यशौचकम् । चित्तदोषविशुद्धित्वमाभ्यन्तरं तु कथ्यते ॥ २६६॥ द्रव्यभावप्रभेदेन, जैनैः शौचं निरूपितम् । येन शौचेन भावस्य बाधा नैव प्रजायते ॥ २६७॥ तद् द्रव्यशौचता ग्राह्या, अपरा नैव मन्यते । यथा शृङ्गारवासेन, प्रेरितश्च जलादिना || २६८ || स्नानादिकार्यकर्त्तव्ये द्रव्यशौचं न कथ्यते । भावस्य कारणं
यत्तु तद्द्रव्यं प्रणिगद्यते ॥ २६६ ॥ पञ्चाधिके च पञ्चाशत्सूत्रभाष्ये च दर्शितम् । इन्द्रियाणां च वश्यत्वं स्वरूपोपायता तथा ॥२७०
तत्रानेकविचाराणां भेदं प्रदर्श्य यौगिके । परमवश्यतारूपं, शब्दादिविषयैः सह ॥ २७९ ॥ इन्द्रियाणां च सम्बन्धरोधे परमवश्यता ।
इति भाष्याभिप्रायं च दृष्ट्वा जैनानुसारतः ॥२७२ विचारभिन्नतां ज्ञात्वा शुद्धरूपं प्रदश्यते । इन्द्रियाणां निरोधस्तु न स्यात्परमवश्यता ॥ २७३॥
१ यथा शृङ्गारवासनया ।