________________
- प्रदीप
[ ६२ ]
जैनशास्त्रानुसारेण, एकान्तेनैव मानने । प्रागभावप्रध्वंसानामस्वीकारः प्रजायते ॥ २५७॥ यतः कार्येष्वनादित्वमानन्त्यं च समानयेत् । अतोऽभावद्वयानां च स्वीकारः सर्वथा मतः २५८ तत्सर्वं समुत्पद्येत असतश्च कथंचन । उत्पादः परिजायेत, सतो विनाशता भवेत् २५६ एतादृग्वस्तुमन्तव्ये, पदार्थमात्रतासु च । द्रव्यपर्यायरूपत्वं घटते नात्र संशयः ॥ २६० ॥ द्रव्यपर्याय मन्तव्ये, उत्पादव्ययकेन वै । धौव्येन युक्तरूपत्वं, घटते वस्तुलक्षणम् ॥ २६१॥ यमेषु सार्वभौमत्वं, राहित्याद्द शकालतः । जैनशास्त्रानुसारेण, सर्वशब्दनियोजने ॥ २६२॥ महाव्रतं निगद्येत, अन्यथा नैव युज्यते । वास्तविक स्वरूपं तत्सर्वज्ञेन प्ररूपितम् | ॥२६३॥
देशशब्देन सम्बन्धे, अणुव्रतं निरुपितम् । एवं रीत्या विवेकेन, नियमे फलता भवेत् ॥ २६४॥ द्वितीयपादसूत्रे च द्वाविंशत्यभिधानके ।
2 सर्वप्राणातिपातांदि विरमणं