________________
योग - mmmmmmmmmxxx
[६२८] मरणसमये चैव, अवश्योदयकर्मकम् । आयुष्कं तच्च विज्ञेयमतस्तस्य प्रधानता ॥२४॥ आवागमनता चैव, गौणस्येव प्रधानके। संक्रमविधिज्ञानं च, विना तन्नेव ज्ञायते ॥२४६॥ कर्मप्रकृतिशास्त्रेषु, पञ्चसंग्रहशास्त्रके। लिखितं विस्तृतेनैव, अतस्ततो विज्ञायताम् ॥२५० सर्वदृश्यप्रपञ्चानां सूत्रे तु दुःखरूपता। विवेकिजनबोधाय, कथिता परिज्ञायताम् ॥२५१॥ तद्वचनं च दृष्ट्या वै, नयदृष्ट्या विलोक्यताम् । निश्चयनयरूपेण, सर्वदृश्यप्रपञ्चकम् ॥२५२॥ दुःखरूपं निगद्यत, व्यवहारनयेन वै । सुखदुःखोभयं चैव, एकान्ते नैव दुःखता ॥२५३॥ सांख्यसूत्रानुसारेण, सृष्टिसंहारयोः क्रमः। सत्कार्यवादरूपेण दर्शितः सर्वरूपतः ॥२५४॥ असदुत्पादता नैव, नासतो भावता भवेत् । एकान्तरूपता तत्र सांख्यशास्त्रे च दर्शिता २५५ मिथ्यारूपा तु सा ज्ञेया, तादृशी मान्यता खलु । एकान्तस्वीकृतिस्तस्मादतो मिथ्यात्वपोषिका २५६