________________
- प्रदीप
[६२७ प्रोक्त विपाकभिन्नत्वं, शुद्धदृष्ट्या विलोकने । अत्यल्पभेदकार्येऽपि, जायते चाष्टभेदता ॥२३॥ ज्ञानावरणतादीनां, कर्मणां चाष्टभेदता। अवान्तरप्रभेदाश्च, जायन्तेऽनेकरूपतः ॥२४०॥ एतादृग्नियमो नास्ति, पूर्वफलं च पूर्वकम् । पश्चाद्वद्धस्य पश्चाच्च, कचित्किन्तु विपर्ययः ॥२४१ पूर्ववद्धस्य पश्चाच्च, पश्चाबद्धस्य पूर्वकम् । यथाम्रादिफलानां च तथाऽत्र परिभाव्यताम् ॥२४२ वासनाऽप्येकरूपेण, कर्मरूपा उदाहृता। अतो हि भिन्नता नास्ति कर्मणि सर्वमागतम् २४३ एकभविकता चैव, आयुष्कर्मणि मन्यते। ज्ञानावारादिकानां च, नैकभविकता भवेत् ॥२४४॥ प्रारब्धता विपाकौनीद्यते चायुष्ककर्मणि । दृश्यन्तेऽन्यानि सर्वाणि, कर्माणि गदितानि च २४५ प्रदेशोदययोगेन, भुज्यन्ते नियमस्ततः । आयुष्कर्मणि नास्त्येव, अतो हि परिज्ञायताम् २४६ मृत्यु विनापि दुःखं च, क्षेत्रकालादिकं तथा। उद्बोधकनिमित्तानि, सन्ति कर्माशये खलु ॥२४७