________________
[६२६]
योग
मोहप्रधानघातीनां, कर्मणां दग्धयोजवत् । द्वादशगुणस्थानेष , यथाऽऽख्यातेन नाशता ॥२३० कर्मविपाकतादीनाम् प्रस्तुत सूत्रभाष्यके। ईदृशी सप्तवार्तासु, मतभेदः प्रदर्शितः ॥२३१॥ विपाकस्त्रिविधो ज्ञेयः, कर्मबन्धनभेदके। क्रमेऽपि चैकरूपत्वं, तथा चात्र प्रदर्श्यते ॥२३२॥ कर्मणां पूर्वषद्धानां, फलं पूर्व तु चाप्यते । पश्चाद् बद्धत्वरूपाणां, फलं पश्चादवाप्यते ॥२३३ वासनाऽनादिकालीना, नैकभविकरूपिका । कर्माशये विज्ञातव्या, तथा प्रारब्धता खलु ॥२३४ कर्माशयस्वरूपस्य, जन्मावधिकृतस्य वै। फलं तु मरणे चैव, सर्व पश्चाम्मिलिष्यति ॥२३५ तत्काले फलवैमुख्यं, भवनं नैव गौणतः । गौणकर्मकतायाश्च, मुख्यकर्मणि चागमः ॥२३६ तत्रापि जैनसिद्धान्तः, स्पष्टरूपेण दय॑ते । वेधा विपाकता प्रोक्ता, सातु नैव समीचीना ॥२३७ अधिका परिदृश्येत, वैदिकेऽपि विलोक्यताम् । .. गङ्गामरणताऽदृष्टविशेषफलरूपिका ॥२३॥