________________
योग
[६२०] बहुधा सादृशं ज्ञेयं, सूक्ष्मदृष्ट्या निरीक्षणे । अतः सर्वत्र ज्ञातव्यं, सूक्ष्मदृष्टिप्रधानता ॥१७७॥ यथावस्त्रवैतानं, लघुकालेन शुष्यते । तथा सोपक्रमायुप्कं, स्वल्पकालेन भुज्यते ॥१७८॥ सम्पीडितं च तद्वस्त्रं, चिरेण परिशुष्यते । निरुपक्रमतायुष्कं, चिरकालेषु भुज्यते ॥१७॥ यथाऽग्निः शुष्ककाष्ठादी, मुक्तौ वातेन सर्वथा । स्वल्पकालेन तत्सर्व, दहति एकहेलया ॥१८०॥ तथा सोपक्रमायुष्क, नश्यति एकहेलया। तादृशोऽग्निश्च निर्वाते, स्थाने च गुरुकालके ॥१८१ तामेव काष्ठराशिं च, चिरकाले च ज्वालयेत् । तथाऽत्रैव विज्ञातव्यं, निरुपक्रमगोचरे ॥१८२॥ यथा संहतशुष्के च, तृणराशिविभक्तके । क्रमेण दह्यमाने च, दाहश्चिरेण जायते ॥१८॥ तस्याः शैथिल्यभूतासु, प्रकीर्णोपचितासु च। सर्वतो ज्वाल्यमानासु एककालं च सर्वथा ॥१८४ भस्मीभूता च सा सर्वा, शीघ्रमेव प्रजायते । तथा सोपक्रमादीनां, विनाशः परिज्ञायताम् ॥१८॥