________________
-प्रदोप
[६१६] शारीरिक्यश्च याः प्रोक्ताः दृश्यन्ते जैनयोगतः। अवधिज्ञानता चैव, मनःपर्यायज्ञानता ॥१६॥ जातिस्मरणज्ञानं च, इति ज्ञानादिलब्धयः । विभूतिशब्दता तत्र, जैनेषु लब्धिसंज्ञकाः ॥१६६ आमौषधिश्च सौषधिश्चैव वि डोषधिः । वैक्रियलब्धिता चैव, श्लेष्मौषध्यादिनामकाः १७० जड्ढाचारणविद्याचारणाऽऽहारकलब्धयः। शारीरिक्यश्च विज्ञेयाः, अनेक भेदरूपिका ।१७१। आवश्यकस्य नियुक्ती, तत्त्वार्थसूत्रवृत्तिषु । नामान्तरीयरूपेण अनेकास्ताश्च वर्णिताः ॥१७२॥ जैनेषु योगभाष्ये च सोपक्रमादिभेदतः। आयुष्कर्मविभेदत्वं बहुधा सादृशं मतम् ॥१७३॥ आर्द्र वस्त्रस्य दृष्टान्तं, तृणराशेश्च ज्ञातकम् । यत्प्रोक्तं तच्च नियुक्तौ, विशेषावश्यके तथा ॥१७४ वृत्त्यादिसर्वशास्त्रेषु दृश्यते खलु साम्यता । तत्त्वार्थभाष्यशास्त्रे च, ततोऽप्यधिकमुच्यते ॥१७५ गणितगोचरत्त्वं तत्तृतीयं परिदर्शितम् । तत्त्वार्थभाष्यशास्त्रस्य, व्यासभाष्यादिकस्य वै॥