SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ [६१४ ] सपर्याय वृहद्रव्यभावना परिभाव्यते । सवितर्कसमापत्तिः, विज्ञेया प्रथमा तदा ॥ १२४ ॥ अपर्याय वृहद्रव्यभावना परितन्यते । निर्वितर्क समापत्तिः द्वितीया परिकीर्त्तिता ॥ १२५ ॥ सपर्यायक सूक्ष्मस्य, द्रव्यस्य भावना यदा । सविचारसमापत्तिः, तृतीया परिभाषिता ॥ १२६ ॥ अपर्यायक सूक्ष्मस्य, द्रव्यस्य परिभावना | निर्विचारसमापत्तिः, चतुर्थी परिकीर्त्तिता ॥१२७॥ आस हि भावनानां च, मोहोपशमश्रेणिके । सम्प्रज्ञात तुल्यत्वं सबीजत्वं विलोक्यते ॥ १२८ ॥ क्षपकश्रेणिभावेषु, असम्प्रज्ञातसादृशम् । निर्बीजत्वं सदा ज्ञेयं, योगिभिः योगकांक्षिभिः १२६ समापत्तिस्वरूपत्वं स निर्बीजस्वरूपतः । " " योग यादृशं चिन्तितं जैनैरन्यत्र नैव तादृशम् ॥१३०॥ परिस्फुटस्वरूपेण, यथा भेदा विचारिताः । तादृशस्पष्टरूपत्वमल्पज्ञत्वे कुतो भवेत् ॥ १३१ ॥ ऋतम्भरा प्रज्ञायाश्च स्वरूपं परिचिन्तितम् | यादृशं जैनयोगेषु अन्यत्र नहि तादृशम् ॥१३२॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy