________________
-प्रदोप प्राणायामोऽपि मन्तव्यः, चित्तशुद्धने कारणम् । हटेन कार्यकर्त्तव्ये, चित्तव्याकुलता भवेत् ॥११॥ हठयोगस्य बाहुल्यं, प्राणायामे भवेत्खलु। चित्तव्याकुलसद्भावे, कदापि नैव शान्तिता ॥११६॥ जैनयोगानुसारेण, द्रव्यभावस्वरूपतः । हठयोगस्य नोसत्ता, अतो हि चित्तशान्तिता ११७ ध्येयविषयचित्तस्य, समानाकारवृत्तिता। समापत्तिस्तु विज्ञया, इतरयोगदर्शने ॥११८॥ सवितर्कनिर्वितकौं, यदा ध्येयस्य स्थूलता। तदा तु द्वौ भवेयातां, दृश्यते चैव द्वौ परौ ॥११॥ यदा तु ध्येयसूक्ष्मः स्यात्सनिर्विचारको तथा । तदा विभावितौ द्वो तु सर्वसङ्कलने ततः ॥१२०॥ समापत्तिः समाख्याता, चतुर्भेदस्वरूपिका । सबीजाश्चैव ज्ञातव्याः, सम्प्रज्ञातस्वरूपिका ॥१२१ जैनशास्त्रीययोगेष , समापत्तिर्विचार्यते । भावनातः समुत्पादः, भावना परिदर्श्यते ॥१२२॥ या भावना च चित्तेष , एकाग्रत्वं नियोजयेत् । यस्या अनुभवः सद्भिः, शुक्लध्याने वितन्यते १२३