________________
[६१२]
योगसुखिप्राणिषु मैत्री च, भावना परिदर्शिता। सङ्कुचितविचारोऽत्र, विशालता नैव दृश्यते १०६ सा च सुखिमनुष्येषु, देवेषु च तथैव च । युज्यते मैत्रिभावश्च, अन्यत्र न कदाचन ॥१०७॥ सर्वप्राणिषु मन्तव्यः, मैत्रिभावश्च सर्वदा । सुखिते दुःखयुक्त च, सर्वत्र शुभचिन्तनम् ॥१०॥ मा कार्षीत्कोऽपि पापानि, मा चाभूत्कोऽपि दुःखितः मुच्यतां जगदप्येषा, मतिमैत्री निगद्यते ॥१०॥ क सुखिजीवव्यक्तौ च, मैत्रीभावविचिन्तनम् । क प्राणिमात्रके वर्गे, मैत्रिभावविचिन्तनम् ॥११०॥ सुखिषु सुखवाञ्छत्वं, दुर्लभं तन्न विद्यते । समस्तप्राणिवर्गेषु, सुखाशा दुर्लभा मता ॥११॥ वस्तुगत्या विचारे तु, न केऽपि सुखिनो जनाः। यत्रैव मोहसम्बन्धः, तत्र च सुखिता कथम् ॥११२॥ चतम्भावनायाश्च, स्वरूपं योगशास्त्रके। प्रोक्तं विस्तृतरूपेण, अत्र नैव विवेचितम् ॥११३॥ अतो हि योगशास्त्रेषु, भावना न समीचिना । दर्शिता चाल्पबुद्धित्वात्साशास्त्रेन तादृशी ११४