________________
- प्रदीप
६११]
रागादिदोषनाशेन, सर्वज्ञत्वंं प्रजायते । नित्यमुक्तत्व स्वीकारे, तस्योत्पत्तिः कथं भवेत् ॥६७ विना रागादिदोषाणां नाशेन नैव जायते । दोषाणां परिनाशे च आयाति मुक्तता खलु ॥६८ नित्यमुक्तत्वमीशे च कया रीत्या प्रदर्श्यते । युक्तिशून्येन मन्तव्ये, बुद्धिमत्ता न तिष्ठति ॥६६॥ वन्ध्यापुत्रसमं ज्ञेयं, द्वयमपि च सर्वथा । दोषाणां परिनाशेच, नित्यत्वं नैव मुक्तके ॥१००॥ दोषनाशस्य राहित्ये, मुक्तता नैव युज्यते । मुक्ततायां च दोषाणामभावः सर्वथा मतः ॥ १०१ ॥ दोषनाशक सामग्री, विना नाशो न सम्भवेत् । यत्काले तादृशी पूर्णा, सामग्री खलु विद्यते १०२ तत्काले जायते नाशः, तदा तत्र न नित्यता । अतोऽपि नित्यमुक्तत्वं, सर्वथा शशशृङ्गवत् १०३ नेश्वरे षड्गुणानां च योगोक्तानां हि सम्भवः । अतः षड्गुणता तस्य, युक्तियुक्तया न युज्यते ॥ १०४ त्रयत्रिंशत्तमे सूत्रे, प्रोक्ता मैत्र्यादिभावना | चित्तशुद्धेश्च हेतुत्वं प्रोक्तं तत्र विचार्यते ॥ १०५ ॥