________________
"-प्रदोप
[६१५] अष्टमगुणस्थानेषु, जातसामर्थ्ययोगतः । तषलात्मकटीभूता, या समाधिजप्रज्ञता ॥१३३॥ शास्त्रतः प्रतिपाद्यत्वं, यद्वस्तुषु न शक्यते । तेषामतीन्द्रियाणां च, वस्तूनामवगाहिनी ॥१३४॥ केवलज्ञानरूपा न, न श्रुतज्ञानरूपिका । रात्र्यवसानकाले च, सूर्योदयस्य पूर्वके ॥१३॥ संध्यारात्रिदिनानां च, भिन्नरूपा च या दशा। माध्यमिकस्वरूपा सा, विज्ञेया सर्वसज्जनैः ॥१३६॥ तथाऽत्र श्रुतज्ञानान्ते, केवलज्ञानपूर्वके । अरुणोदयसाक्षी, ज्ञेयानुभवरूपिका ॥१३७॥ यदनुभवता ज्ञेया, तत्काले दीर्घदर्शिनी। अन्यैस्तु परिगीयेत, ऋतम्भराभिधानका ॥१३॥ शुद्धानुभवता सर्वा, केवलज्ञानप्राक्क्षणे । श्रुतज्ञानान्तिमावस्थायां सैव परिप्राप्यते ॥१३॥ जैनयोगप्रसिद्धा ये दृश्यन्तेऽन्यत्र नो तथा । ते पातञ्जलयोगेषु, सन्ति कदापि नो खलु ॥१४०॥ भवप्रत्ययशब्दस्तु, देवनारकयोनिषु । अवधिज्ञानप्रस्तावे, दर्शितो भवप्रत्ययः ॥१४१॥