SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ [६०८] योग अर्थात्त्रयोदशाच्चैव, चतुर्दशगुणालये । प्राप्यते चेति मन्तव्यं, एतद् द्वयगुणालये ॥७॥ अघातिकर्मसम्बन्धसंस्कारः परितिष्ठति । असम्प्रज्ञातयोगस्तु, संस्कारशेषकालिके ॥७१॥ द्रव्यमानससत्त्वेऽपि, भावमनो न विद्यते । अतः संस्कारशेषत्वं, तत्रैव प्रणिगद्यते ॥७२॥ प्रकृतौ च विदेहे च, भवप्रत्यययोगता। भवप्रत्ययशब्देन, जन्मतोऽवधिज्ञानता ॥७३॥ साऽपि तस्यैव सिद्धान्ते, घटते नैव युक्तितः । जन्मतोऽवधिज्ञानस्य, विदेहेषु च पूर्णता ॥७४॥ अत्र विदेहशब्देन, एकावतारिता भवेत् । सा च सर्वार्थसिद्धषु, देवेषु घटते सदा ॥७॥ म्रियते श्रेणिसम्प्राप्तः, पूर्णायुषो वियोगतः । लवसप्तकहीनेन, परिणामस्य शुद्धितः ॥७६ ॥ मृत्वा तत्रैव जाथेत, सर्वार्थसिद्धनामके । एकावतारितां प्राप्य, सिध्यति नात्र संशयः ॥७॥ चतुर्विंशतिमारभ्य, षड्विंशतिकसूत्रके। परमेश्वररूपत्वं, भाष्यकारेण दर्शितम् ॥७॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy