________________
-प्रदीप
[६०६] भाष्यटीका कृता चैव, सूत्रकारीयमान्यताम् । दर्शयता प्रधानेन, षड्धर्मास्तत्र दर्शिताः ॥७॥ ईशे सत्त्वगुणानां च प्राकष्य केवलं मतम् । द्वितीयं सृष्टिकर्तृत्वं एकत्वं च तृतीयकम् ॥८०॥ अनादिशुद्धता चैव, तूर्या च नित्यमुक्तता। पञ्चमी सर्वज्ञातृत्वमनुग्रहाभिलाषिता ॥१॥ प्रथमद्विगुणानां च, स्वोकारो नैव युज्यते । कर्माऽभावे च प्राकष्य, सत्त्वगुणस्य नो भवेत् ॥८२ जडप्रकृतितत्त्वस्थ सत्त्वगुणो निगद्यते । जडप्रकृतिशून्ये च सर्वज्ञे, नैव युज्यते ॥३॥ मोहजन्यगुणा एते मोहाभावे च ते कथम् । जगत्कर्तृत्वरूपत्वं, वीतरागे न युज्यते ॥४॥ निरूपितं मया तत्र, तत्त्वाख्याने विभाव्यताम् । उत्तरत्रिगुणानां च, एकत्वाऽनादिशुद्धते ॥८॥ अनुग्रहाभिलाषानां, समन्वयः कथं भवेत् । सर्वज्ञत्वस्य मन्तव्ये, योगे च प्रविवेचितम् ॥८६॥ उत्तरत्रिगुणानां च, विवेचन विधीयते । एकत्वशब्दभावार्थः संख्यासादृश्यरूपकः ॥८॥