________________
[६०४]
योगप्रमाणं परिभासेत, यथा दृष्ट्यनुसारतः। स एव नयबोधः स्यादशिभावप्रकाशकः ॥३५॥ वस्तुगत्या विचारे तु, चैतन्यमात्मरूपकम् । तस्यानेकस्वरूपेषु, यदा चैतन्यवस्तुनः ॥३६॥ उपस्थितं च वक्तव्यं, तदा तु भेद दृष्टीनाम् । प्राधान्यं तत्र संस्थाप्य, प्रामाणिकैनिंगद्यते ॥३७॥ चैतन्यमात्मनो रूपं, सर्वेषां तच्च सम्मतम् । एतत्कथनयोगेन, इदमेव प्रसिद्धति ॥३८॥ आकाशपुष्पवैकल्पः, विपर्ययस्वभावतः । अशास्त्रीयश्च सर्वत्र, मन्तव्यः सर्वथा मतः ॥३६ मनुष्यस्य स्वरूपाख्याः, चैतन्यादिविकल्पकाः। शास्त्रीयाः सर्वमन्तव्याः, तत्रैव नयरूपतः ॥४० प्रमाणकांशरूपास्तु, कथं न नयरूपकाः । नयस्वरूपवोधे च नो भवेदप्रमाणता ॥४१॥ एकान्ताभावरूपाऽपि निद्रावृत्तिर्न कथ्यते । तत्र हस्त्यश्वभावानां, कदाचिद्भासता भवेत् ॥४२ स्वप्नावस्थाऽपि त्वेकेन, निद्राप्रकारता मता। अतः सत्या प्रभासेत, दृष्टं च तादृशं किल ॥४३॥