________________
- प्रदोष
[६०३] शशविषाणशब्देन, कश्चिद्बोधस्तु जायते । सोऽयं वैकल्पिको बोधः विकल्पकोटिको मतः ।२६। अप्रमाणस्वरूपत्वात् समावेशो विपर्यके । आत्मचैतन्यशब्देन, भेदबोधकषष्ठीतः ॥२७॥ आत्मचैतन्ययोर्भेदः, भासते शब्दयोगतः। . भेदनयप्रधानेन, प्रमाणांशस्वरूपकः ॥२८॥ विकल्पः स यथार्थः स्याद्वास्तववस्तुषोधतः । विकल्पव्यवहारस्तु, शास्त्रप्रमाणसम्मतः ॥२६॥ अर्थवन्नामराहित्याद्विभक्तिरन्यथा कथम् । अर्थवन्नामतश्चैव, विभक्तिः परिकीर्तिता ॥३०॥ एष वन्ध्यासुतो याति, शशशृङ्गधनुर्धरः। स्नात्वा च कूर्मदुग्धेषु, खपुष्पकृतशेखरः ॥३१॥ वैकल्पिक विना बोधं, प्रयोगास्तादृशाः कथम् । अतः सोऽपि हि मन्तव्यः, प्रयोगप्रविलोकनात् ३२ यथार्थेतरभेदेन, द्विविधः परिकीर्तितः।.. प्रयोगास्तादृशा ज्ञेयाः, यथा बोधानुसारतः॥३३॥ कदाचिद्दप्राधान्यभेदस्यापि कुत्रचित् । व्यवह मनुष्यस्य, दृष्टिद्वयविलोकने ॥३४॥