________________
-प्रदोप
। ६०५]
नैकशो जागृतावस्थासु यदनुभवो भवेत् । निद्रायामपि तादृक्षः, यादृग् जागृद्दशास्वपि ॥४४ तेनैव हेतुना ज्ञेया, निद्रावृत्त्यां च सत्यता । अयथार्था च कुत्रचित् सबोधाऽभावतः खलु ॥४५ अयथार्थायथार्थाभ्यां, भेदाभ्यां द्विविधा मता। इत्येवं परिमन्तव्यं, साशास्त्रानुसारतः ॥४६॥ स्मृतिरपि च वृत्तीनां, तिमृणां ज्ञेययोगतः। प्रमाणेतररूपेषु, अन्तर्भावो विभाव्यते ॥४७॥ रजते राजतो बुद्धिः, यदि च स्मयते सदा । यथार्थबोधता तत्र प्रमाणेन विलोक्यताम् ॥४॥ शुक्तौ च राजती बुद्धिः, यदा च स्मर्यते खलु । तदाऽयथार्थबोधः स्यादप्रमाणे विभाव्यताम् ॥४६॥ वृत्तीनां पञ्चतां त्यक्त्वा, अतो द्वधा निरूप्यताम् । प्रमाणेतररूपेषु, अन्तर्भावः प्रदर्शितः ॥५०॥ षोडशसूत्रग्रन्थेषु, अपरापरभेदतः। वैराग्यं द्विविधं ज्ञेयं, सूत्रकारस्य सूचनात् ॥५१॥ आपातधर्मसंन्यासः, प्रथमं परिभाव्यते । विषयागतदोषाणां, प्रारम्भे दोषदृष्टितः ॥५२॥