________________
- प्रदीप
[ ६०१ ]
चित्तवृत्तिनिरोधस्तु तत्रापि जायते तथा । लक्षणस्यैव सद्भावे, अतिव्याप्तिर्भवेद्धवम् ॥८॥ यद्यध्याहारता कार्या, इति चेदुच्यते तदा । योगाङ्गषु परेष्वेव, अव्याप्तिर्निश्चिता भवेत् ॥६॥ अतोऽध्याहारकर्त्तव्ये, अकर्त्तव्ये तथैव च ।
अतिव्याप्तिरव्याप्तिश्च जायते योगलक्षणे ॥१०॥ द्विपाशारज्जुको न्यायः, आगतोऽत्र विलोक्यताम् । सर्वदोषनिरासाय क्लिष्टशब्दस्तु चेद्भवेत् ॥ ११ ॥ क्लिष्टचित्तीयवृत्तीनां, निरोधो योग उच्यते । तदा तु दोषता नैव, सम्पूर्ण किन्तु नो भवेत् ॥ १२॥ सन्ध्यावन्दन कार्येषु, देवपूजादिके तथा । योगस्याभावता ज्ञेया, योगाङ्ग नैव संग्रहः ॥ १३॥ व्यापारो धार्मिको यो यः, तत्र योगस्तु सम्मतः । सन्ध्यावन्दनकार्ये च योगता नैव त्वन्मते ॥१४॥ धार्मिकव्यावृतौ येोगे, स्वीकृते नैव देोषता । तदूव्यापारश्च सर्वत्र, निरवद्यश्च धार्मिकः ॥१५॥
जैनशैल्यनुसारेण, योगलक्षणमुच्यते ।
स्वभावोन्मुखरूपा या, समिति गुप्तिरूपिका ॥ १६ ॥
9