________________
योगदर्शनविचारणा।
॥ नमो नमः श्रीप्रभुधर्मसूरये ॥ परं ज्योतिनमस्कृत्य, धर्मसूरिं गुरु तथा। मीमांसा योगशास्त्रस्य, क्रियते जैनदृष्टितः ॥१॥ चित्तवृत्तिनिरोधश्च, कथितं योगलक्षणम् । उभययोगसाम्येन, ग्रन्थकृता निरूपितम् ॥२॥ सर्वचित्तस्य वृत्तीनां, निरोधो योग उच्यते । असम्प्रज्ञातयोगेशु, घटते लक्षणं तदा ॥३॥ अन्ययोगाङ्गभेदेषु, चिचवृत्तिसमुद्भवात् । लक्षणं युज्यते नैव, अव्याप्तिदोषता ततः ॥४॥ विना च सर्वशब्दस्य, दोषनिवारणं नहि । सर्वशब्दप्रयोगे च, निर्दोष लक्षणं सदा ॥५॥ अयं भाष्याभिप्रायस्तु, सर्वथा दोषयुग मतः । अध्याहारे कृने दोषः, अकृतेऽपि तथैव च ॥६॥ अध्याहारस्य सर्वस्प, न कृते सम्प्रज्ञातके। यद्यपि संग्रहो जातः, अतिव्याप्तिर्विक्षिप्तके ॥७॥