________________
-प्रदाप
[५६६] सर्वज्ञागममध्येषु , सम्पूर्ण प्रतिपादितम् । कुत्रचिद् दृष्टिरूपेण, कुत्रचिद्योगनामतः ॥५२॥ तत्तत्सर्वं विलोक्यैव, मया च मन्दबुद्धिना। सर्वेषां योगरूपं हि, यथा मत्या प्रकाशितम् ॥५३॥ ॥ इतिश्रीशास्त्रविशारदजैनाचार्यश्रीमद्विजय
धर्मसूरीश्वरशिष्येण न्याय विशारदन्यायतीर्थोपाध्यायमङ्गलविजयेन विनिर्मिते योगप्रदीपे समाधि स्वरूप वर्णननामा एकविंशतितमः प्रकाशः
समाप्तः ॥