________________
[ ५६८ ]
संस्कारशेषतारूपो ह्यसम्प्रज्ञातयोगकः 1 तादृशी च दशायां च मतिज्ञान विशेषकः ॥४३॥ संस्कारसम्भवो नैव, भावस्वान्तवियोगतः । अतः संस्कारशेषेण, अघातिकर्मरूपकः ॥ ४४ ॥ सम्बन्धः परिज्ञातव्यः नान्योऽपि कुत्रचिद्भवेत् । अतोऽप्यसम्प्रज्ञातत्वयोगो ध्यानद्विरूपकः || ४५|| तृतीयशुक्लध्यानं च चतुर्थशुक्लध्यानकम् । तत्रैव ध्यानरूपे च समावेशो विभाव्यते ॥ ४६ ॥ परैर्द्वि योगता प्रोक्ता, जैनैर्ध्यान चतुष्ककम् । केवलनामभिन्नत्वं, परैः प्रोक्तं स्वशात्रके ॥४७॥ वास्तविकार्थसम्प्राप्तिः परत्र नैव दृश्यते ।
,
योग
यादृशीस्फुररूपाऽत्र, तादृशी नैव कुत्रचित् ॥४८ || अन्त्य द्विशुक्लतारूप:, असम्प्रज्ञातयोगकः । जैनशास्त्रेषु ज्ञातव्यः, योगिना योगकांक्षिणा ॥४६॥ योगप्रदीपनामाख्यं यच्च शास्त्रं विनिर्मितम् । पातञ्जलादिशास्त्राणां यथामत्या विलोकनात् ५० यादृशं जैनशास्त्रेषु, योगानां च निरूपणम् । तादृशं नैव चान्यत्र, सूक्ष्मावलोकनं तथा ॥ ५१ ॥