________________
-प्रदोप
[५६५] योगग्रन्थानुरोधेन, सर्वमेतत्पपश्चितम् । द्वधा समाधिता चैव, संक्षेपेन निरूपिता ॥१७॥ तृतीयतूर्यध्यानस्य शुक्लस्य प्रतिपादने । समये कथितं सर्वमतोऽत्र न निगद्यते ॥१८॥ प्रासङ्गिकं च यत्किश्चिद्योगविषयकं तथा। निरूपणेऽवकाशं च, दृष्ट्वाऽत्र प्रतिपाद्यते १६ योगिनो द्विविधा ज्ञेया, कुलप्रवृत्तयोगिनः । योगिकुलेषु ये जाता, तद्धर्मे चानुरागिणः ॥२०॥ ते कुलयोगिनो ज्ञेयाः, कथ्यन्ते योगिनः परे । दयावन्तश्च सर्वत्र, परोपकारिणः सदा ॥२१॥ सुश्रूषादिगुणानां च सेवने तत्पराः खलु । प्रवृत्तवक्रयोगिनः, त एव परिकीर्तिताः ॥२२॥ शुद्धभाववती या च, भावशून्या च या क्रिया। तद्वयोरन्तरं ज्ञेयं, भानुखद्योतवत् यथा ॥२३॥ तथाऽत्र द्वययोगीनामन्तरं परिज्ञायते । यद् हृदि छद्मनास्त्येवाऽशुद्धभावप्रकाशकम् ॥२४॥ गुह्यदोषादिसेवित्वं तस्याने परिकथ्यताम् । जनकल्याणयुक्तस्य, यत्र रागादिशान्तिता ॥२५॥