________________
योग
[५६६] यच्चित्ते भेद भावश्च, तस्य गुह्यं न कथ्यते । योग्यायोग्यविभागस्य, अज्ञानिनो जनस्य च २६ तस्थाने नेव वक्तव्यं, गुह्यभावप्रकाशनम् । वक्तव्ये दोषवृद्धिः स्याद् गुणानां च विनाशता २७ विशुद्धज्ञानिना चैव, योग्यायोग्यविभागताम् । ज्ञात्वैव परिवक्तव्यं, परेषां गुणपुष्टये ॥२८॥ योगस्तु द्विविधः प्रोक्तः, जैनेतरीययोगके । प्रथमः सम्प्रज्ञातः स्याद्वितीयोऽसम्प्रज्ञातकः ॥२६॥ जैनयोगानुसारेण, तुलना च विधीयते । अध्यात्मभावनायोगो, ध्यानं च समता तथा ॥३०॥ वृत्तिसंक्षयतारूपः पञ्चमः परिकीर्तितः। एतेषां पञ्चयोगानां, मध्ये पञ्चमयोगके ॥३१॥ द्विविधस्यापि योगस्य, समावेशस्तु पञ्चमे । येन रूपेण जायेत, तत्प्रकारो निगद्यते ॥३२॥ आत्मनः स्थूलसूक्ष्माणां, चेष्टानां च तद्धे तूनां । कर्मसंयोगयोग्यत्वानां च क्रमेण हासता ॥३३॥ वृत्तिसंक्षयरूपत्वं, तत्रैव परिभाष्यते । वृत्तिसंक्षयता साऽपि, ग्रंथिभेदेन भाविनी ॥३४॥