SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ [५६४] योगआरोहाऽऽरूढसाक्षी, अस्य गतिश्च तादृशो । चन्दनगन्धतुल्या च, क्षमाप्यत्रैव दृश्यते ॥८॥ आसंगरहिताप्यत्र, क्रिया स्वगुणपोषिका । शिक्षातश्च यथारत्नयोजकदृष्टिभिन्नता ॥६॥ तथा तस्य नियोगेन, अपूर्वयत्नयोगतः । केवल क्षमता तस्य, जायते शक्तिशालिनः ॥१०॥ सर्वज्ञः क्षीणदोषश्च, सर्वलब्धिसमन्वितः। परोपकारिपूर्णश्च, शिवसुखं भजेत्ततः ॥११॥ योगनिरोधतां कृत्वा, अयोगिभावतां भजेत् । सर्वशत्रुक्षयादेव, सर्वव्याधिविनाशता ॥१२॥ पूर्णसर्वसमीहश्च, सर्वार्थयोगके यथा । जाता ततोऽपि चानन्तगुणा तस्य निरीहता ॥१३॥ तृतीयशुक्लध्यानेषु, सम्प्रज्ञातसमाधिता। योगनिरोधताकाले, सूक्ष्मा क्रिया च तत्र वै ॥१४॥ चतुर्थशुक्लध्यानेष, सर्वथाश्रवरोधता । शैलेशी च दशां प्राप्तः, असंप्रज्ञातता ततः १५ सर्वाश्रवप्रवृत्तीनां, सर्वथा तत्र शून्यता। सर्वसंवरता तत्र, सर्वथा प्रकटीयते ॥१६॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy