________________
समाधिनिरूपणम् ।
समाधिरूपता यैश्च, प्राप्ता न जगदीश्वरैः । तेभ्यः समाधिरूपेभ्यः, श्रीपार्वेभ्यो नमोनमः ॥१ यस्माच्छ्रद्धागुणः प्राप्तः, यस्माच ज्ञानबिन्दुता। यस्माचारित्र सम्प्राप्तिः, तस्मै श्रीगुरवे नमः ॥२॥ सत्समाधिस्वरूपं च, अत्रैव परिवर्ण्यते । अज्ञानदोषसङ्गन, त्रुटिश्चेत् क्षम्यतां सता ॥३॥ समाधिस्तु तदेवार्थमात्राभासकरूपकम् । ध्येयस्य ध्यानता ध्याने, समाधो ध्येयरूपता ॥४॥ यदर्थ क्रियते ध्यानं, तदेवार्थस्वरूपकम् । समाधौ प्रकटीयेत, अतस्तत्रैव श्रेष्ठता ॥५॥ सारसामाधितादृष्टिः, पूर्णप्रवृत्तिरूपिका । स्वस्वभावेषु ज्ञातव्या, चन्द्रवद्बोधदर्शिका ॥६॥ व्यतिचार पदोयोगी, अत्रैव परिदृश्यते । नातिचारत्वलेशा हि, सूक्ष्मोऽपि प्रणिगद्यते ॥७॥ १ केवलित्वादतिचारलेशोऽपि समाध्यवस्थायां न दृश्यते
૨૮