________________
योग
[५८.] समाधानम् :इति शङ्काकुले लोके, समाधानं वितन्यते । तेनैव घटज्ञातेन, साद्यनन्तकतां भजेत् ॥२२६ प्रध्वंसो हि घटादोना, जातश्च मुद्गरादितः। प्रध्वंसस्य क्षयो नास्ति, अनन्तत्वमतो मतम् ॥२३० प्रध्वंसस्य क्षयश्चेद्धि, मन्यते मन्दबुद्धिना । तदा तु घटसद्भावः, तत्कालेऽपि प्रसज्यते ॥२३१॥ अनन्तत्वं प्रध्वंसे च, नैयायिकेन स्वीकृतम् । सर्वदर्शनकारैश्च, तत्रानन्त्यं निगद्यते ॥२३२॥ तथा च घटध्वंसे हि, सादित्वं घटध्वंसतः । अनन्तत्वं प्रध्वंसे च, विनाशस्य वियोगतः ॥२३३॥ साद्यानन्त्यं च युक्त्या वै मोक्षसुखे विभाव्यताम् । युक्तिप्रमाणदानेन, साधितं नात्र संशयः ॥२३४॥ स्वाभाविकं च तज्ज्ञेयमात्मस्वरूपमात्रतः । न कारणान्तरादेव, एवं सुखं प्रजायते ॥२३५॥ मुक्तौ सुखादिकं नैव, वैशेषिकैश्च मन्यते । आत्मविशेषभावानां, गुणानां समुच्छेदता ॥२३६॥ यत्रैव जायते तत्र, मोक्षत्वं प्रविमन्यते ।