________________
-प्रदीप
[ ५८७ ]
वायूनां प्रेरणेनैव, किन्तु तिर्यक् च गच्छति । तथा च सिद्धजीवानां दृष्टान्तं प्रविचार्यताम् ॥२२१ कर्माष्टकस्य लेपेन, जीवतुम्बं भवोदधौ । मज्जति योगमार्गेण, दृष्टान्तं प्रविचार्यताम् ॥२२२ जीवतुम्बं च लोकान्तं धर्माधर्मावधिस्तथा । तावत्पर्यन्तकं याति नोर्ध्व ततोऽपि गच्छति ॥ कर्माष्टकवियोगेन, गौरवस्य वियोगतः । नाधोऽपि याति सिद्धश्च परप्रेरणशून्यतः ॥२२४॥ तिर्यगपि न याता सः अतो लोकान्तके स्थितः साद्यनन्तस्थितिकत्व, पर्यन्तं परितिष्ठति ॥ २२५॥ साद्यनन्तस्वरूपं तदमुपमं स्वभावजम् । अव्याबाधं च तत्सौख्यं, सर्वज्ञेनैव प्राप्यते ॥ २२६
शङ्कासमुत्थानम् -
सादिकथमनन्तं स्याद्युक्त्या च नैव युज्यते । सादित्वं यत्र दृष्टं वै, तस्य विनाशता घ्र वम् ॥२२७
यथा घटादिकं सादि तस्य ध्वंसो विलोक्यते ।
तथैव सिद्धिसौख्यस्य, विनाशे नैव संशयः ॥ २२८